International Journal of All Research Education & Scientific Methods

An ISO Certified Peer-Reviewed Journal

ISSN: 2455-6211

Latest News

Visitor Counter
2194184649

आदिकवि महर्षि वा...

You Are Here :
> > > >
आदिकवि महर्षि वा...

आदिकवि महर्षि वाल्मीकि कृत रामायण की समीक्षा

Author Name : डॉ सरोज मीना

शोध सारांश

वाल्मीकिमहर्षिः श्रीमद्रामायणस्य कर्ता। अयम् आदिकविरित्युच्यते। अस्य पिता प्रचेताः। रत्नाकरः इति वाल्मीकेः मूलं नाम। प्रचेतसः पुत्रः इति कारणेन प्राचेतसः इति अस्य अपरं नाम। जन्मना अयं व्याधः आसीत्। रत्नाकरः अरण्यमार्गे गच्छतः जनान् भाययित्वा चौर्यं कृत्वा जीवति स्म। एकदा तस्मिन् मार्गे नारदमहर्षिःसमागतः। नारदमहर्षिं दृष्ट्वा चौर्यं कर्तुं रत्नाकरः तत्सकाशं गतवान्। रत्नाकरः यथार्थमवगच्छति। ज्ञानोदयः सञ्जायते।रावणवधानन्तरं कस्यचन रजकस्य वचनं श्रुत्वा रामेण सीता परित्यक्ता। तस्मिन्नवसरे वाल्मीकिमुनेः आश्रमे सीता आश्रिताऽभूत्। आश्रमे एव कुशलवयोः जननमभवत्। बालकयोः शस्त्राभ्यासः शास्त्राभ्यासश्च वाल्मीकिमुनिना एव कारितः। अपि च बालकौ समग्रं रामायणं कण्ठस्थीकृतवन्तौ। एकदा वाल्मिकिमहर्षिः शिष्येण भारद्वाजेन सह स्नानार्थं तमसानदीं प्रति गतवान् आसीत्। स्वप्रियतमस्य वियोगेन बहु दुःखितां पक्षिणीं दृष्ट्वा आर्द्रचित्तः वाल्मीकिः झटिति तस्मै व्याधाय शापं प्रायच्छत्। तस्य मुखात् शापः श्लोकरूपेण निःसृतः।

“मा निषाद प्रतिष्ठां त्वमगमः शाश्वती समा। यत्क्रौञ्चमिथुनादेक मवधीः काममोहितम्॥”